Vaishnava
March 10, 2019

"Shree Goda-Prapatti" ("Shree Andal-Prapatti") in Sanskrit

The conversion and proofread had been made by me (Vishnudut1926) on 09th of March, 2019

The Sanskrit original for the conversion had been borrowed from prapatti.com - http://prapatti.com/slokas/sanskrit/godaaprapatti.pdf

श्रीः

ॐ श्रियै नमः

ॐ नमो नारायणाय

ॐ गोदायै नमः

श्रीमते रामानुजाय नमः

॥ श्रीगोदाप्रपत्तिः ॥

श्रीभूमिनायकमनोहरदेवि मान्यो

श्रीविष्णुचित्ततनये श्रितकामधेनो ।

मातस्समस्तजगतां महनीयकीर्ते

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ १ ॥

श्रीधन्विनव्यनगरे तुलसीवनान्तः

देवी स्वयं समुदिता जनकात्मजेव ।

भूम्यंशतो भुवनपावनि भूसमृद्धे

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ २ ॥

आरभ्य शैशवमसारतमच्युताङ्घ्रि

भक्त्यै निरस्तविषयान्तरभाववन्द्ये ।

श्रीभूसमानुपमदिव्यमहानुभावे

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ३ ॥

स्वीयोत्तमाङ्गधृतमाल्यसमर्पणेन

गोदेति नाम वहसि स्वयमच्युताय ।

भाग्याधिके परमपूरुष भाग्यलब्धे

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ४ ॥

तत्वन्तवेषु धृतमाल्यवरं मुकुन्दः

सङ्गृह्य मूर्ध्नि प्रवहन्मुमुदे नितान्तम् ।

तत्प्रेमवर्णकसुसुन्दर दिव्यमूर्ते

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ५ ॥

श्रीनन्दगोपसुतसुन्दरदिव्यदेह

भोगाभिलाषकृतपूर्वचरित्रभाषे ।

कल्याणि लब्धयदुनन्दन भोगपूर्णे

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ६ ॥

श्रीमच्छठारिमुनिशक्तपितृत्वभावे

नाथादियामुनयतीश्वरपूज्यपादे ।

शौरे पदाब्जपरभक्तिमतां शरण्यम्

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ७ ॥

त्वत् सूक्तिसिद्धममलं परमान्यमग्र्यम्

हैयङ्गवीनमपि सुन्दरबाहवेऽपि ।

दातुर्य्यशक्त्युपतिरेवरलं चकर्तु

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ८ ॥

प्राबोध्यकीस्तुतिवशीकृतवासुदेवे

पद्मापते प्रथितभाग्यकृतावतारे ।

गोपालबालचरितेषु कृतानुरागे

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ९ ॥

कारुण्यतूर्णहृदये कमलासहाये

भक्तप्रिये परमपावनवाग्विहारे ।

श्रीभट्टनाथकुलमङ्गळदीपरेखे

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ १० ॥

वज्रारविन्दमकरध्वजशङ्खचक्र

छत्रादिलाञ्छिततलौ सरसीरुहाभौ ।

सर्वाश्रितार्तिहरणे सपदि प्रवीणौ

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ११ ॥

सौशील्यकान्तिसमताश्रितवत्सलत्वम्

सौहार्ददान्तमुखसद्गुणराशिपूर्णे ।

पुण्ये पुराङ्घ्रिपुरुषोत्तमहृद्यवृत्ते

गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ १२ ॥

॥ इति श्रीगोदाप्रपत्तिः सम्पूर्णा ॥